Original

विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते ।महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः ॥ ३० ॥

Segmented

विजित्य क्षममाणस्य यशो राज्ञो ऽभिवर्धते महा-अपराधाः हि अपि अस्मिन् विश्वसन्ति हि शत्रवः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
क्षममाणस्य क्षम् pos=va,g=m,c=6,n=s,f=part
यशो यशस् pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
अपराधाः अपराध pos=n,g=m,c=1,n=p
हि हि pos=i
अपि अपि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विश्वसन्ति विश्वस् pos=v,p=3,n=p,l=lat
हि हि pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p