Original

चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते ।पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ॥ ९ ॥

Segmented

चैत्र्याम् वा मार्गशीर्ष्याम् वा सेना-योगः प्रशस्यते पक्व-सस्या हि पृथिवी भवति अम्बुमती तथा

Analysis

Word Lemma Parse
चैत्र्याम् चैत्री pos=n,g=f,c=7,n=s
वा वा pos=i
मार्गशीर्ष्याम् मार्गशीर्षी pos=n,g=f,c=7,n=s
वा वा pos=i
सेना सेना pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
पक्व पक्व pos=a,comp=y
सस्या सस्य pos=n,g=f,c=1,n=s
हि हि pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अम्बुमती अम्बुमत् pos=a,g=f,c=1,n=s
तथा तथा pos=i