Original

चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः ।दाहयामास विदुरो धर्मराजस्य शासनात् ॥ ४३ ॥

Segmented

चित्वा दारुभिः अव्यग्रः प्रभूतैः स्नेह-तापितैः दाहयामास विदुरो धर्मराजस्य शासनात्

Analysis

Word Lemma Parse
चित्वा चि pos=vi
दारुभिः दारु pos=n,g=m,c=3,n=p
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
प्रभूतैः प्रभूत pos=a,g=m,c=3,n=p
स्नेह स्नेह pos=n,comp=y
तापितैः तापय् pos=va,g=m,c=3,n=p,f=part
दाहयामास दाहय् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s