Original

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ ६ ॥

Segmented

अतीव मुख-वर्णः ऽस्य निहतस्य अपि शोभते सोमस्य इव अभिपूर्णस्य पौर्णमास्याम् समुद्यतः

Analysis

Word Lemma Parse
अतीव अतीव pos=i
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
निहतस्य निहन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat
सोमस्य सोम pos=n,g=m,c=6,n=s
इव इव pos=i
अभिपूर्णस्य अभिपृ pos=va,g=m,c=6,n=s,f=part
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
समुद्यतः समुदि pos=va,g=m,c=6,n=s,f=part