Original

वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥ ३० ॥

Segmented

वितुद्यमानम् विहगैः विराटम् असित-ईक्षणाः न शक्नुवन्ति विवशा निवर्तयितुम् आतुराः

Analysis

Word Lemma Parse
वितुद्यमानम् वितुद् pos=va,g=m,c=2,n=s,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
विराटम् विराट pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=f,c=1,n=p
pos=i
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
विवशा विवश pos=a,g=f,c=1,n=p
निवर्तयितुम् निवर्तय् pos=vi
आतुराः आतुर pos=a,g=f,c=1,n=p