Original

तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना ।उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ।स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥ १५ ॥

Segmented

तस्य शोणित-संदिग्धान् केशान् उन्नाम्य पाणिना उत्सङ्गे वक्त्रम् आधाय जीवन्तम् इव पृच्छति स्वस्रीयम् वासुदेवस्य पुत्रम् गाण्डीवधन्वनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शोणित शोणित pos=n,comp=y
संदिग्धान् संदिह् pos=va,g=m,c=2,n=p,f=part
केशान् केश pos=n,g=m,c=2,n=p
उन्नाम्य उन्नामय् pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s