Original

तस्यावनतदेहस्य पादयोर्निपतिष्यतः ।युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी ।अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ॥ ६ ॥

Segmented

तस्य अवनत-देहस्य पादयोः निपतिष्यतः युधिष्ठिरस्य नृपतेः धर्म-ज्ञा धर्म-दर्शिन् अङ्गुलि-अग्राणि ददृशे देवी पट्ट-अन्तरेण सा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अवनत अवनम् pos=va,comp=y,f=part
देहस्य देह pos=n,g=m,c=6,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
निपतिष्यतः निपत् pos=va,g=m,c=6,n=s,f=part
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s
अङ्गुलि अङ्गुलि pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
ददृशे दृश् pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
पट्ट पट्ट pos=n,comp=y
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s