Original

आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् ।यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ २८ ॥

Segmented

आदौ एव मनुष्येण वर्तितव्यम् यथा क्षमम् यथा न अतीतम् अर्थम् वै पश्चात्तापेन युज्यते

Analysis

Word Lemma Parse
आदौ आदि pos=n,g=m,c=7,n=s
एव एव pos=i
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
यथा यथा pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
यथा यथा pos=i
pos=i
अतीतम् अती pos=va,g=m,c=2,n=s,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
पश्चात्तापेन पश्चात्ताप pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat