Original

इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् ।प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ॥ ५७ ॥

Segmented

इति एवम् तव पुत्रस्य निशम्य करुणाम् गिरम् प्रत्यूष-काले शोक-आर्तः प्राधावम् नगरम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
करुणाम् करुण pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
प्रत्यूष प्रत्यूष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
प्राधावम् प्रधाव् pos=v,p=1,n=s,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i