Original

अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च ।न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥ ६३ ॥

Segmented

अन्यान् अन्यान् च पुरुषान् अभिसृत्य अभिसृत्य च न्यकृन्तद् असिना द्रौणिः असि-मार्ग-विशारदः

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अभिसृत्य अभिसृ pos=vi
अभिसृत्य अभिसृ pos=vi
pos=i
न्यकृन्तद् निकृत् pos=v,p=3,n=s,l=lan
असिना असि pos=n,g=m,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
असि असि pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s