Original

दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा ।क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥ २ ॥

Segmented

दह्यमानः तु शोकेन प्रदीप्तेन अग्निना यथा क्रूरम् मनः ततस् कृत्वा तौ उभौ प्रत्यभाषत

Analysis

Word Lemma Parse
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
प्रदीप्तेन प्रदीप् pos=va,g=m,c=3,n=s,f=part
अग्निना अग्नि pos=n,g=m,c=3,n=s
यथा यथा pos=i
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
कृत्वा कृ pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan