Original

प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ ।अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥ १५ ॥

Segmented

प्राण-भृद्भिः अनाधृष्यौ देव-दानव-संमतौ अस्त्र-तेजः शमयितुम् लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
भृद्भिः भृत् pos=a,g=m,c=3,n=p
अनाधृष्यौ अनाधृष्य pos=a,g=m,c=1,n=d
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
संमतौ सम्मन् pos=va,g=m,c=1,n=d,f=part
अस्त्र अस्त्र pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
शमयितुम् शमय् pos=vi
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s