Original

वैशंपायन उवाच ।इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः ।द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच इङ्गितेन एव दाशार्हः तम् अभिप्रायम् आदितः द्रौणेः बुद्ध्वा महा-बाहुः अर्जुनम् प्रत्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इङ्गितेन इङ्गित pos=n,g=n,c=3,n=s
एव एव pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
बुद्ध्वा बुध् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan