Original

वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् ।प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥ ९ ॥

Segmented

वहताम् शार्ङ्गधन्वानम् अश्वानाम् शीघ्र-गामिनाम् प्रादुरासीत् महान् शब्दः पक्षिणाम् पतताम् इव

Analysis

Word Lemma Parse
वहताम् वह् pos=va,g=m,c=6,n=p,f=part
शार्ङ्गधन्वानम् शार्ङ्गधन्वन् pos=n,g=m,c=2,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
शीघ्र शीघ्र pos=a,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i