Original

आदित्योदयवर्णस्य धुरं रथवरस्य तु ।दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ।पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ २ ॥

Segmented

आदित्य-उदय-वर्णस्य धुरम् रथ-वरस्य तु दक्षिणाम् अवहत् सैन्यः सुग्रीवः सव्यतो ऽवहत् पार्ष्णि-वाहौ तु तस्य आस्ताम् मेघपुष्प-बलाहकौ

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
उदय उदय pos=n,comp=y
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
तु तु pos=i
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
सैन्यः सैन्य pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सव्यतो सव्यतस् pos=i
ऽवहत् वह् pos=v,p=3,n=s,l=lan
पार्ष्णि पार्ष्णि pos=n,comp=y
वाहौ वाह pos=n,g=m,c=1,n=d
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
मेघपुष्प मेघपुष्प pos=n,comp=y
बलाहकौ बलाहक pos=n,g=m,c=1,n=d