Original

यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ।भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥ ३० ॥

Segmented

यथा एव पितृतो भीष्मः तथा त्वम् अपि मातृतः भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
पितृतो पितृ pos=n,g=m,c=5,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मातृतः मातृ pos=n,g=f,c=5,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
यथा यथा pos=i
वा वा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat