Original

प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ।राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः ॥ ५९ ॥

Segmented

प्रेतकार्याणि सर्वाणि तस्य सम्यग् अकारयत् राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ऋत्विग्भिः सहितो भीष्मः सर्वैः च कुरु-पुङ्गवैः

Analysis

Word Lemma Parse
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सम्यग् सम्यक् pos=i
अकारयत् कारय् pos=v,p=3,n=s,l=lan
राज्ञो राजन् pos=n,g=m,c=6,n=s
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
सत्यवत्या सत्यवती pos=n,g=f,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
कुरु कुरु pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p