Original

सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् ।भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ।सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥ ४६ ॥

Segmented

सताम् धर्मेण धर्म-ज्ञः कृत्वा कर्म अतिमानुषम् भ्रातुः विचित्रवीर्यस्य विवाहाय उपचक्रमे सत्यवत्या सह मिथः कृत्वा निश्चयम् आत्मवान्

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
विवाहाय विवाह pos=n,g=m,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
सत्यवत्या सत्यवती pos=n,g=f,c=3,n=s
सह सह pos=i
मिथः मिथस् pos=i
कृत्वा कृ pos=vi
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s