Original

क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः ।क्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥ ३५ ॥

Segmented

क्षत्रियाणाम् तदा वाचः श्रुत्वा पर-पुरञ्जयः क्रुद्धः शांतनवो भीष्मः तिष्ठ तिष्ठ इति अभाषत

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तदा तदा pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan