Original

ता इमाः पृथिवीपाला जिहीर्षामि बलादितः ।ते यतध्वं परं शक्त्या विजयायेतराय वा ।स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥ १२ ॥

Segmented

ता इमाः पृथिवी-पालाः जिहीर्षामि बलाद् इतः ते यतध्वम् परम् शक्त्या विजयाय इतरस्मै वा स्थितो ऽहम् पृथिवी-पालाः युद्धाय कृत-निश्चयः

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=2,n=p
इमाः इदम् pos=n,g=f,c=2,n=p
पृथिवी पृथिवी pos=n,comp=y
पालाः पाल pos=n,g=m,c=8,n=p
जिहीर्षामि जिहीर्ष् pos=v,p=1,n=s,l=lat
बलाद् बल pos=n,g=n,c=5,n=s
इतः इतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यतध्वम् यत् pos=v,p=2,n=p,l=lot
परम् पर pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
इतरस्मै इतर pos=n,g=m,c=4,n=s
वा वा pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
पालाः पाल pos=n,g=m,c=8,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s