Original

वसव ऊचुः ।तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥ २० ॥

Segmented

वसव ऊचुः तुरीयार्धम् प्रदास्यामो वीर्यस्य एकैकशस् वयम् तेन वीर्येण पुत्रः ते भविता तस्य च ईप्सितः

Analysis

Word Lemma Parse
वसव वसु pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
तुरीयार्धम् तुरीयार्ध pos=n,g=m,c=2,n=s
प्रदास्यामो प्रदा pos=v,p=1,n=p,l=lrt
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
एकैकशस् एकैकशस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part