Original

मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः ।पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥ ६ ॥

Segmented

मनस्युः अभवत् तस्मात् शूरः श्येनी-सुतः प्रभुः पृथिव्याः चतुः-अन्तायाः गोप्ता राजीव-लोचनः

Analysis

Word Lemma Parse
मनस्युः मनस्यु pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्मात् तद् pos=n,g=m,c=5,n=s
शूरः शूर pos=n,g=m,c=1,n=s
श्येनी श्येनी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
चतुः चतुर् pos=n,comp=y
अन्तायाः अन्त pos=n,g=f,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s