Original

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥ ५ ॥

Segmented

प्रवीर-ईश्वर-रौद्राश्वाः त्रयः पुत्रा महा-रथाः पूरोः पौष्ट्याम् अजायन्त प्रवीरः तत्र वंश-कृत्

Analysis

Word Lemma Parse
प्रवीर प्रवीर pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
रौद्राश्वाः रौद्राश्व pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पूरोः पूरु pos=n,g=m,c=6,n=s
पौष्ट्याम् पौष्टी pos=n,g=f,c=7,n=s
अजायन्त जन् pos=v,p=3,n=p,l=lan
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वंश वंश pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s