Original

आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् ।संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥ ३१ ॥

Segmented

आर्क्षे संवरणे राजन् प्रशासति वसुंधराम् संक्षयः सु महान् आसीत् प्रजानाम् इति शुश्रुमः

Analysis

Word Lemma Parse
आर्क्षे आर्क्ष pos=n,g=m,c=7,n=s
संवरणे संवरण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
संक्षयः संक्षय pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
इति इति pos=i
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit