Original

सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ।चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥ २५ ॥

Segmented

सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः चैत्य-यूप-अङ्किता च आसीत् भूमिः शत-सहस्रशस् प्रवृद्ध-जन-सस्या च सहदेवा व्यरोचत

Analysis

Word Lemma Parse
सुहोत्रे सुहोत्र pos=n,g=m,c=7,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
तदा तदा pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
शासति शास् pos=va,g=m,c=7,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
चैत्य चैत्य pos=n,comp=y
यूप यूप pos=n,comp=y
अङ्किता अङ्कय् pos=va,g=f,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भूमिः भूमि pos=n,g=f,c=1,n=s
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
जन जन pos=n,comp=y
सस्या सस्य pos=n,g=f,c=1,n=s
pos=i
सहदेवा सहदेव pos=a,g=f,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan