Original

सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या ।तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ७ ॥

Segmented

सुखम् हि जन्तुः यदि वा अपि दुःखम् दैव-अधीनम् विन्दति न आत्म-शक्त्या तस्माद् दिष्टम् बलवन् मन्यमानो न संज्वरेन् न अपि हृष्येत् कदाचित्

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=2,n=s
हि हि pos=i
जन्तुः जन्तु pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
दैव दैव pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
pos=i
आत्म आत्मन् pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
बलवन् बलवत् pos=a,g=n,c=2,n=s
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
संज्वरेन् संज्वर् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
हृष्येत् हृष् pos=v,p=3,n=s,l=vidhilin
कदाचित् कदाचिद् pos=i