Original

ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् ।अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १४ ॥

Segmented

ततः पुरीम् पुरुहूतस्य रम्याम् सहस्र-द्वाराम् शत-योजन-आयताम् अध्यावसम् वर्ष-सहस्र-मात्रम् ततो लोकम् परम् अस्मि अभ्युपेतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
पुरुहूतस्य पुरुहूत pos=n,g=m,c=6,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
सहस्र सहस्र pos=n,comp=y
द्वाराम् द्वार pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
अध्यावसम् अध्यावस् pos=v,p=1,n=s,l=lan
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part