Original

वैशंपायन उवाच ।स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि ।पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥ १ ॥

Segmented

वैशंपायन उवाच स्वः गतः स तु राज-इन्द्रः निवसन् देव-सद्मनि पूजितः त्रिदशैः साध्यैः मरुद्भिः वसुभिः तथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वः स्वर् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
सद्मनि सद्मन् pos=n,g=n,c=7,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
वसुभिः वसु pos=n,g=m,c=3,n=p
तथा तथा pos=i