Original

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ।भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥ २१ ॥

Segmented

शुक्रेण च वरो दत्तः काव्येन उशनसा स्वयम् पुत्रो यः त्वा अनुवर्तेत स राजा पृथिवीपतिः भवतो अनुनयामि एवम् पूरू राज्ये ऽभिषिच्यताम्

Analysis

Word Lemma Parse
शुक्रेण शुक्र pos=n,g=m,c=3,n=s
pos=i
वरो वर pos=n,g=m,c=1,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
काव्येन काव्य pos=n,g=m,c=3,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
भवतो भवत् pos=a,g=m,c=2,n=p
अनुनयामि अनुनी pos=v,p=1,n=s,l=lat
एवम् एवम् pos=i
पूरू पूरु pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot