Original

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः ।स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥ ४ ॥

Segmented

ऋषिः आसीन् महान् पूर्वम् तपः-विद्या-समन्वितः स्थूलकेश इति ख्यातः सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
तपः तपस् pos=n,comp=y
विद्या विद्या pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
स्थूलकेश स्थूलकेश pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part