Original

ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ ९ ॥

Segmented

ययातिः देवयान्याम् तु पुत्रौ अजनयत् नृपः यदुम् च तुर्वसुम् च एव शक्र-विष्णू इव अपरौ

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
देवयान्याम् देवयानी pos=n,g=f,c=7,n=s
तु तु pos=i
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
अजनयत् जनय् pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
यदुम् यदु pos=n,g=m,c=2,n=s
pos=i
तुर्वसुम् तुर्वसु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शक्र शक्र pos=n,comp=y
विष्णू विष्णु pos=n,g=m,c=2,n=d
इव इव pos=i
अपरौ अपर pos=n,g=m,c=2,n=d