Original

एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ।किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥ १४ ॥

Segmented

एवम् पृष्ट्वा तु राजानम् कुमारान् पर्यपृच्छत किंनामधेय-गोत्रः वः पुत्रका ब्राह्मणः पिता विब्रूत मे यथातथ्यम् श्रोतुम् इच्छामि तम् हि अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पृष्ट्वा प्रच्छ् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कुमारान् कुमार pos=n,g=m,c=2,n=p
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
किंनामधेय किंनामधेय pos=a,comp=y
गोत्रः गोत्र pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
पुत्रका पुत्रक pos=n,g=m,c=8,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
यथातथ्यम् यथातथ्यम् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s