Original

गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ ५८ ॥

Segmented

गुरोः उष्य सकाशे तु दश वर्ष-शतानि सः अनुज्ञातः कचो गन्तुम् इयेष त्रिदश-आलयम्

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
उष्य वस् pos=vi
सकाशे सकाश pos=n,g=m,c=7,n=s
तु तु pos=i
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
सः तद् pos=n,g=m,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
कचो कच pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
त्रिदश त्रिदश pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s