Original

शुक्र उवाच ।असंशयं मामसुरा द्विषन्ति ये मे शिष्यं नागसं सूदयन्ति ।अब्राह्मणं कर्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि ।अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ ३९ ॥

Segmented

शुक्र उवाच असंशयम् माम् असुरा द्विषन्ति ये मे शिष्यम् नागसम् सूदयन्ति अब्राह्मणम् कर्तुम् इच्छन्ति रौद्रास् ते माम् यथा प्रस्तुतम् दानवैः हि अपि अस्य पापस्य भवेद् इह अन्तः कम् ब्रह्महत्या न दहेद् अपि इन्द्रम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशय pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
असुरा असुर pos=n,g=m,c=1,n=p
द्विषन्ति द्विष् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
नागसम् नागस् pos=a,g=m,c=2,n=s
सूदयन्ति सूदय् pos=v,p=3,n=p,l=lat
अब्राह्मणम् अब्राह्मण pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
रौद्रास् रौद्र pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
यथा यथा pos=i
प्रस्तुतम् प्रस्तु pos=va,g=m,c=2,n=s,f=part
दानवैः दानव pos=n,g=m,c=3,n=p
हि हि pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
pos=i
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s