Original

तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् ।ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥ १२ ॥

Segmented

तत्र अभवत् तदा राजन् ब्रह्म क्षत्रेण संगतम् ब्राह्मणा मानवाः तेषाम् साङ्गम् वेदम् अदीधरन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
साङ्गम् साङ्ग pos=a,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अदीधरन् धृ pos=v,p=3,n=p,l=lun