Original

ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥ ७ ॥

Segmented

ततो ऽस्य नाम चक्रुः ते कण्व-आश्रम-निवासिनः अस्तु अयम् सर्वदमनः सर्वम् हि दमयति अयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कण्व कण्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
सर्वदमनः सर्वदमन pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
हि हि pos=i
दमयति दमय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s