Original

क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः ।विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥ ८ ॥

Segmented

क्रतोः क्रतु-समाः पुत्राः पतङ्ग-सहचारिणः विश्रुतास् त्रिषु लोकेषु सत्य-व्रत-परायणाः

Analysis

Word Lemma Parse
क्रतोः क्रतु pos=n,g=m,c=6,n=s
क्रतु क्रतु pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पतङ्ग पतंग pos=n,comp=y
सहचारिणः सहचारिन् pos=a,g=m,c=1,n=p
विश्रुतास् विश्रु pos=va,g=m,c=1,n=p,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p