Original

अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ।संपातिं जनयामास तथैव च जटायुषम् ।द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥ ६७ ॥

Segmented

अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महा-बलौ संपातिम् जनयामास तथा एव च जटायुषम् द्वौ पुत्रौ विनतायाः तु विख्यातौ गरुड-अरुणौ

Analysis

Word Lemma Parse
अरुणस्य अरुण pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
श्येनी श्येनी pos=n,g=f,c=1,n=s
तु तु pos=i
वीर्यवन्तौ वीर्यवत् pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
संपातिम् सम्पाति pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
pos=i
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
विनतायाः विनता pos=n,g=f,c=6,n=s
तु तु pos=i
विख्यातौ विख्या pos=va,g=m,c=1,n=d,f=part
गरुड गरुड pos=n,comp=y
अरुणौ अरुण pos=n,g=m,c=1,n=d