Original

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ।अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥ ६ ॥

Segmented

अश्रु-बिन्दु-उद्भवा तस्याः प्रावर्तत महा-नदी अनुवर्तती सृतिम् तस्या भृगोः पत्न्या यशस्विनः

Analysis

Word Lemma Parse
अश्रु अश्रु pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
उद्भवा उद्भव pos=a,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
अनुवर्तती अनुवृत् pos=va,g=f,c=1,n=s,f=part
सृतिम् सृति pos=n,g=f,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
पत्न्या पत्नी pos=n,g=f,c=3,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s