Original

तथैव च समानीय गन्धर्वाप्सरसां गणान् ।उवाच भगवान्सर्वानिदं वचनमुत्तमम् ।स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति ॥ ४७ ॥

Segmented

तथा एव च समानीय गन्धर्व-अप्सरसाम् गणान् उवाच भगवान् सर्वान् इदम् वचनम् उत्तमम् स्वैः अंशैः सम्प्रसूयध्वम् यथा इष्टम् मानुषेषु इति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
समानीय समानी pos=vi
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणान् गण pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
अंशैः अंश pos=n,g=m,c=3,n=p
सम्प्रसूयध्वम् सम्प्रसू pos=v,p=2,n=p,l=lot
यथा यथा pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
मानुषेषु मानुष pos=n,g=m,c=7,n=p
इति इति pos=i