Original

इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः ।जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥ २७ ॥

Segmented

इह देव-त्वम् इच्छन्तो मानुषेषु मनस्विनः जज्ञिरे भुवि भूतेषु तेषु तेषु असुराः विभो

Analysis

Word Lemma Parse
इह इह pos=i
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
मानुषेषु मानुष pos=n,g=m,c=7,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
भुवि भू pos=n,g=f,c=7,n=s
भूतेषु भू pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
असुराः असुर pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s