Original

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ ९३ ॥

Segmented

प्रह्राद-शिष्यः नग्नजित् सुबलः च अभवत् ततः तस्य प्रजा धर्म-हन्तृ जज्ञे देव-प्रकोपनात्

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
नग्नजित् नग्नजित् pos=n,g=m,c=1,n=s
सुबलः सुबल pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
हन्तृ हन्तृ pos=a,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
प्रकोपनात् प्रकोपन pos=n,g=n,c=5,n=s