Original

कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम ।गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ।एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ ६२ ॥

Segmented

कन्या-त्वे दूषिते च अपि कथम् शक्ष्ये द्विजोत्तम गन्तुम् गृहम् गृहे च अहम् धीमन् न स्थातुम् उत्सहे एतत् संचिन्त्य भगवन् विधत्स्व यद् अनन्तरम्

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
दूषिते दूषय् pos=va,g=n,c=7,n=s,f=part
pos=i
अपि अपि pos=i
कथम् कथम् pos=i
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
गन्तुम् गम् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
गृहे गृह pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धीमन् धीमत् pos=a,g=m,c=1,n=s
pos=i
स्थातुम् स्था pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
भगवन् भगवत् pos=a,g=m,c=8,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s