Original

कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः ।मासे च दशमे प्राप्ते तदा भरतसत्तम ।उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥ ४९ ॥

Segmented

कदाचिद् अथ मत्सीम् ताम् बबन्धुः मत्स्य-जीविन् मासे च दशमे प्राप्ते तदा भरत-सत्तम उज्जह्रुः उदरात् तस्याः स्त्री-पुमांसम् च मानुषम्

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
अथ अथ pos=i
मत्सीम् मत्सी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
मत्स्य मत्स्य pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
मासे मास pos=n,g=m,c=7,n=s
pos=i
दशमे दशम pos=a,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
उज्जह्रुः उद्धृ pos=v,p=3,n=p,l=lit
उदरात् उदर pos=n,g=n,c=5,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्त्री स्त्री pos=n,comp=y
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s