Original

तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् ।वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ २६ ॥

Segmented

तत्र ते न्यवसन् राजन् संवत्सर-गणान् बहून् वशे शस्त्र-प्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
संवत्सर संवत्सर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
महीक्षितः महीक्षित् pos=n,g=m,c=2,n=p