Original

त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च ।भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ।अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥ २३ ॥

Segmented

त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च भ्रातृभिः विग्रहः तात कथम् वो न भवेद् इति अस्माभिः खाण्डवप्रस्थे त्वद्-वासः ऽनुचिन्तितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
विग्रहः विग्रह pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
खाण्डवप्रस्थे खाण्डवप्रस्थ pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
ऽनुचिन्तितः अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part