Original

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ।च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ।प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥ ७ ॥

Segmented

भृगोः सु दयितः पुत्रः च्यवनः नाम भार्गवः च्यवनस्य अपि दायादः प्रमतिः नाम धार्मिकः प्रमतेः अपि अभूत् पुत्रो घृताच्याम् रुरुः इति उत

Analysis

Word Lemma Parse
भृगोः भृगु pos=n,g=m,c=6,n=s
सु सु pos=i
दयितः दयित pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
नाम नाम pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
अपि अपि pos=i
दायादः दायाद pos=n,g=m,c=1,n=s
प्रमतिः प्रमति pos=n,g=m,c=1,n=s
नाम नाम pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
प्रमतेः प्रमति pos=n,g=m,c=6,n=s
अपि अपि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
पुत्रो पुत्र pos=n,g=m,c=1,n=s
घृताच्याम् घृताची pos=n,g=f,c=7,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i