Original

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः ।अतीव तपसा युक्तो वैश्वानरसमद्युतिः ।शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥ १२ ॥

Segmented

तत्र तस्याः समभवद् गर्भो ज्वलन-संनिभः अतीव तपसा युक्तो वैश्वानर-सम-द्युतिः शुक्ल-पक्षे यथा सोमो व्यवर्धत तथा एव सः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
गर्भो गर्भ pos=n,g=m,c=1,n=s
ज्वलन ज्वलन pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
अतीव अतीव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वैश्वानर वैश्वानर pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
यथा यथा pos=i
सोमो सोम pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s