Original

सूत उवाच ।ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः ।उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥ २५ ॥

Segmented

सूत उवाच ते तक्षक-समादिष्टाः तथा चक्रुः भुजंगमाः उपनिन्युः तथा राज्ञे दर्भान् आपः फलानि च

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तक्षक तक्षक pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p
उपनिन्युः उपनी pos=v,p=3,n=p,l=lit
तथा तथा pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
दर्भान् दर्भ pos=n,g=m,c=2,n=p
आपः अप् pos=n,g=m,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
pos=i