Original

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥ ८ ॥

Segmented

ततो ऽपरस्मिन् सम्प्राप्ते काले कस्मिंश्चिद् एव तु परिक्षिद् इति विख्यातो राजा कौरव-वंश-भृत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरस्मिन् अपर pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
एव एव pos=i
तु तु pos=i
परिक्षिद् परिक्षित् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
वंश वंश pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s